इक्ष्वाकुवंश्यः ककुदं नृपाणां
ककुत्स्थ इत्याहितलक्षणोऽभूत् ।
काकुत्स्थशब्दं यत उन्नतेच्छाः
श्लाघ्यं दधत्युत्तरकोसलेन्द्राः ॥

अन्वयः AI इक्ष्वाकु-वंश्यः, नृपाणाम् ककुदम्, ककुत्स्थः इति आहित-लक्षणः अभूत् । यतः उन्नत-इच्छाः उत्तर-कोसल-इन्द्राः श्लाघ्यम् काकुत्स्थ-शब्दम् दधति ।
सञ्जीविनीटीका (मल्लिनाथः) इक्ष्वाक्किति॥ इक्ष्वाकोर्मनुपुत्रस्य वंश्यो वंशे भवः। नृपाणां ककुदं श्रेष्ठः। ककुञ्च ककुदं श्रेष्ठे वृषांसे राजलक्ष्मणि इति विश्वः। आहितलक्षणः प्रख्यातगुणः। गुणैः प्रतीते तु कृतलक्षणाहितलक्षणौ इत्यमरः (अमरकोशः ३.१.३ ) । ककुदि वृषांसे तिष्ठतीति ककुत्स्थ इति प्रसिद्धः कश्चिद्राजाभूत्। यतः ककुत्स्थादारभ्योन्नतेच्छा महाशयाः। महेच्छस्तु महाशयः इत्यमरः (अमरकोशः ३.१.३ ) । उत्तरकोसलेन्द्रा राजानो दिलीपादयः श्लाध्यं प्रशस्तम्। ककुत्स्थस्यापत्यं पुमान् काकुत्स्थ इति शब्दं संज्ञां दधति बिभ्रति। तन्नामसंस्पर्शोऽपि वंशस्य कीर्तिकर इति भावः। पुरा किल पुरंजयो नाम साक्षाद्भगवतो विष्णोरंशावतारः कश्चिदैक्ष्वाको राजा देवैः सह समयबन्धेन देवासुरयुद्धे महोक्षरूपधारिणो महेन्द्रस्य ककुदि स्थित्वा पिनाकिलीलया निखिलमसुरकुलं निहत्य ककुत्स्थसंज्ञां लेभ इति पौराणिकी कथाऽत्रानुसंधेया। वक्ष्यते चायमेवार्थ उत्तरश्लोके ॥
Summary AI "In the lineage of Ikshvaku, there was a king named Kakutstha, who was the foremost among kings and bore that distinguishing name. Because of him, the high-aspiring lords of North Kosala bear the praiseworthy title 'Kakutstha'."
सारांश AI इक्ष्वाकु वंश में 'ककुत्स्थ' नामक महान राजा हुए। उन्हीं के नाम से उत्तर कोशल के राजाओं को गौरवशाली 'काकुत्स्थ' की उपाधि प्राप्त हुई।
पदच्छेदः AI
इक्ष्वाकुवंश्यःइक्ष्वाकुवंश्य (१.१) A descendant of Ikshvaku
ककुदम्ककुद् (२.१) the foremost
नृपाणाम्नृप (६.३) among kings
ककुत्स्थःककुत्स्थ (१.१) Kakutstha
इतिइति thus
आहितलक्षणःआहितलक्षण (१.१) who bore the distinguishing name
अभूत्अभूत् (√भू कर्तरि लुङ् (परस्मै.) प्र.पु. एक.) was
काकुत्स्थशब्दम्काकुत्स्थशब्द (२.१) the title 'Kakutstha'
यतःयतः Because of whom
उन्नतेच्छाःउन्नतइच्छा (१.३) the high-aspiring
श्लाघ्यम्श्लाघ्य (√श्लाघ्+ण्यत्, २.१) praiseworthy
दधतिदधति (√धा कर्तरि लट् (परस्मै.) प्र.पु. बहु.) bear
उत्तरकोसलेन्द्राःउत्तरकोसलइन्द्र (१.३) the lords of North Kosala
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
क्ष्वा कु वं श्यः कु दं नृ पा णां
कु त्स्थ त्या हि क्ष णो ऽभूत्
का कु त्स्थ ब्दं न्न ते च्छाः
श्ला घ्यं त्यु त्त को ले न्द्राः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.