ऐरावतास्फालनविश्लथं यः
संघट्टयन्नङ्गदमङ्गदेन ।
उपेयुषः स्वामपि मूर्तिमग्र्या-
मर्धासनं गोत्रभिदोऽधितष्ठौ ॥

अन्वयः AI यः अङ्गदेन ऐरावत-आस्फालन-विश्लथम् अङ्गदम् संघट्टयन्, स्वाम् अग्र्याम् मूर्तिम् उपेयुषः अपि गोत्र-भिदः अर्ध-आसनम् अधितष्ठौ ।
सञ्जीविनीटीका (मल्लिनाथः) ऐरावतेति॥ यः ककुत्स्थ ऐरावतस्य स्वर्गजस्यास्फालनेन ताडनेन विश्लथं शिथिलमङ्गदमैन्द्रमङ्गदेन स्वकीयेन संघट्टयन् संघर्षयन् स्वामग्र्यां श्रेष्ठां मूर्तिमुपेयुषोऽपि प्राप्तस्यापि गोत्रभिद इन्द्रस्यार्धमासनस्यार्धासनम्। अर्धं नपुंसकम् (अष्टाध्यायी २.२.२ ) इति समासः। अधितष्ठावधिष्ठितवान्। स्थादिष्वभ्यासेन चाभ्यासस्य (अष्टाध्यायी ८.३.६४ ) इत्यभ्यासेन व्यवायेऽपि षत्वम्। न केवलं महोक्षरूपधारिण एव तस्य ककुदमारुरुक्षत्। किंतु निजरूपधारिणोऽपीन्द्रस्यार्धासनमित्यपिशब्दार्थः। अथवा, -अर्धासनमपीत्यपेरन्वयः ॥
Summary AI "He (Kakutstha), while adjusting his own armlet, which had been loosened by striking Airavata, with Indra's armlet, occupied half the throne of Indra (the smasher of mountains), even after Indra had resumed his own supreme form."
सारांश AI उन्होंने ऐरावत हाथी को सहलाते हुए अपनी भुजाओं के बल से इंद्र के साथ आधा आसन साझा किया और देवताओं के समान सर्वोच्च सम्मान प्राप्त किया।
पदच्छेदः AI
ऐरावतास्फालनविश्लथम्ऐरावतआस्फालनविश्लथ (२.१) loosened by striking Airavata
यःयद् (१.१) He who
संघट्टयन्संघट्टयत् (सम्√घट्ट्+णिच्+शतृ, १.१) while adjusting
अङ्गदम्अङ्गद (२.१) armlet
अङ्गदेनअङ्गद (३.१) with (Indra's) armlet
उपेयुषःउपेयिवस् (उप√इ+क्वसु, ६.१) of him who had resumed
स्वाम्स्व (२.१) his own
अपिअपि even
मूर्तिम्मूर्ति (२.१) form
अग्र्याम्अग्र्य (२.१) supreme
अर्धासनम्अर्धआसन (२.१) half the throne
गोत्रभिदःगोत्र-भिद् (६.१) of Indra (the smasher of mountains)
अधितष्ठौअधितष्ठौ (अधि√स्था कर्तरि लिट् (परस्मै.) प्र.पु. एक.) occupied
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
रा ता स्फा वि श्ल थं यः
सं ट्ट न्न ङ्ग ङ्ग दे
पे यु षः स्वा पि मू र्ति ग्र्या
र्धा नं गो त्र भि दो ऽधि ष्ठौ
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.