कुसुमान्यपि गात्रसंगमा-
त्प्रभवन्त्यायुरपोहितुं यदि ।
न भविष्यति हन्त साधनं
किमिवान्यत्प्रहरिष्यतो विधेः ॥

अन्वयः AI यदि कुसुमानि अपि गात्र-सङ्गमात् आयुः अपोहितुम् प्रभवन्ति, हन्त! प्रहरिष्यतः विधेः अन्यत् किम् इव साधनम् न भविष्यति?
सञ्जीविनीटीका (मल्लिनाथः) कुसुमानीति॥ कुसुमानि पुष्पाण्यपि। अपि शब्दो नितान्तमार्दवद्योतनार्थः। गात्रसंगमाद्देहसंसर्गादायुरपोहितुमपहर्तुं प्रभवन्ति यदि। हन्त विषादे। हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः इत्यमरः (अमरकोशः ३.३.२५९ ) । प्रहरिष्यतो हन्तुमिच्छतो विधेर्दैवस्यान्यत् कुसुमातिरिक्तं किमिव वस्तु। इवशब्दो वाक्यालंकारे। कीदृशमित्यर्थः। साधनं प्रहरणं न भविष्यति न भवेत्? सर्वमपि साधनं भविष्यत्येवेत्यर्थः ॥
Summary AI If even flowers, by mere contact with the body, are able to take away life, alas! What other instrument will not be used by fate when it intends to strike?
सारांश AI यदि पुष्पों का स्पर्श भी प्राण हरने में समर्थ है, तो प्रहार करने के इच्छुक विधाता के लिए अब वध का और क्या साधन शेष रह गया होगा?
पदच्छेदः AI
कुसुमानिकुसुम (१.३) Flowers
अपिअपि even
गात्रसङ्गमात्गात्रसङ्गम (५.१) from contact with the body
प्रभवन्तिप्रभवन्ति (प्र√भू कर्तरि लट् (परस्मै.) प्र.पु. बहु.) are able
आयुःआयुस् (२.१) life
अपोहितुम्अपोहितुम् (अप√ऊह्+तुमुन्) to take away
यदियदि if
not
भविष्यतिभविष्यति (√भू कर्तरि लृट् (परस्मै.) प्र.पु. एक.) will be
हन्तहन्त alas
साधनम्साधन (१.१) an instrument
किम्किम् (१.१) what
इवइव indeed
अन्यत्अन्य (१.१) other
प्रहरिष्यतःप्रहरिष्यत् (प्र√हृ+लृट्-शतृ, ६.१) of the striking
विधेःविधि (६.१) fate
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
कु सु मा न्य पि गा त्र सं मा
त्प्र न्त्या यु पो हि तुं दि
वि ष्य ति न्त सा नं
कि मि वा न्य त्प्र रि ष्य तो वि धेः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.