Loading data... On slow networks this could take a few minutes.
100%

तं वाहनादवनतोत्तरकायमीष-
द्विध्यन्तमुद्धृतसटाः प्रतिहन्तुमीषुः ।
नात्मानमस्य विविदुः सहसा वराहा
वृक्षेषु विद्धमिषुभिर्जघनाश्रयेषु ॥

अन्वयः AI उद्धृत-सटाः वराहाः, वाहनात् ईषत् अवनत-उत्तर-कायम् विध्यन्तम् तम् प्रतिहन्तुम् ईषुः। (किन्तु) जघन-आश्रयेषु वृक्षेषु इषुभिः विद्धम् आत्मानम् सहसा न विविदुः।
सञ्जीविनीटीका (मल्लिनाथः) तमिति॥ वराहाः। वाहनादश्वादीषदवनतोत्तरकायं किंचिदानतपूर्वकायं विध्यन्तं प्रहरन्तं तं नृपम्। उद्धृतसटा ऊर्ध्वकेसराः सन्तः। सटा जटाकेसरयोः इति केशवः। प्रतिहन्तुमीषुः प्रतिहर्तुमैच्छन्। अस्य नृपस्येषुभिः सहसा जघनानामाश्रयेष्ववष्टम्भेषु वृक्षेषु विद्धमात्मानं न विविदुः। एतेन वराहाणां मनस्वित्वं नृपस्य हस्तलाघवं चोक्तम् ॥
Summary AI With bristles raised, the boars tried to charge and strike back at the king, who was slightly bent over his mount while shooting. But they suddenly found themselves pierced by his arrows and pinned to the trees by their hindquarters, not even realizing what had happened.
सारांश AI झुककर प्रहार करते राजा पर आक्रमण करने को उद्यत सूअरों को पता भी नहीं चला कि वे बाणों द्वारा पेड़ों के साथ बेध दिए गए हैं।
पदच्छेदः AI
तम्तद् (२.१) him
वाहनात्वाहन (५.१) from his mount
अवनतोत्तरकायम्अवनतउत्तरकाय (२.१) whose upper body was bent down
ईषत्ईषत् slightly
विध्यन्तम्विध्यत् (√व्यध्+शतृ, २.१) while piercing
उद्धृतसटाःउद्धृतसट (१.३) with bristles raised
प्रतिहन्तुम्प्रतिहन्तुम् (प्रति√हन्+तुमुन्) to strike back
ईषुःईषुः (√इष् कर्तरि लिट् (परस्मै.) प्र.पु. बहु.) tried
not
आत्मानम्आत्मन् (२.१) themselves
अस्यइदम् (६.१) his
विविदुःविविदुः (√विद् कर्तरि लिट् (परस्मै.) प्र.पु. बहु.) did know
सहसासहसा suddenly
वराहाःवराह (१.३) the boars
वृक्षेषुवृक्ष (७.३) on the trees
विद्धम्विद्ध (√व्यध्+क्त, २.१) pierced
इषुभिःइषु (३.३) by arrows
जघनाश्रयेषुजघनआश्रय (७.३) resting on their hindquarters
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
तं वा ना तो त्त का मी
द्वि ध्य न्त मु द्धृ टाः प्र ति न्तु मी षुः
ना त्मा स्य वि वि दुः सा रा हा
वृ क्षे षु वि द्ध मि षु भि र्ज ना श्र ये षु
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.