प्रायो विषाणपरिमोक्षलघूत्तमाङ्गा-
न्खङ्गांश्चकार नृपतिर्निक्षितैः क्षुरप्रैः ।
श्रृङ्गं स दृप्तविनयाधिकृतः परेषा-
मत्युच्छ्रितं न ममृषे न तु दीर्घमायुः ॥

अन्वयः AI नृपतिः निक्षितैः क्षुरप्रैः खड्गान् प्रायः विषाण-परिमोक्ष-लघु-उत्तमाङ्गान् चकार। सः दृप्त-विनय-अधिकृतः (सन्) परेषाम् अति-उच्छ्रितम् शृङ्गम् न ममृषे, दीर्घम् आयुः तु न (ममृषे इति न)।
सञ्जीविनीटीका (मल्लिनाथः) प्राय इति॥ नृपतिर्निशितैः क्षुरप्रैः शरविशेषैः खङ्गान् खङ्गाख्यान्मृगान्। गण्डके खङ्गखङ्गिनौ इत्यमरः (अमरकोशः ३.३.३१ ) । प्रायो बाहुल्येन विषाणपरिमोक्षेण शृङ्गभङ्गेन लघून्यगुरूण्युत्तमाङ्गानि शिरांसि येषां तांश्चकार। न त्ववधीदित्यर्थः। कुतः? दृप्तविनयाधिकृतो दुष्टनिग्रहनियुक्तः स राजा परेषां प्रतिकूलानामत्युच्छ्रितमुन्नतं श्रृङ्गं विषाणं प्राधान्यं च। शृङ्गं प्राधान्यसान्वोश्च इत्यमरः (अमरकोशः ३.३.३१ ) । न ममृषे न सेहे। दीर्घमायुर्जीवितकालम्। आयुर्जीवितकालो ना इत्यमरः (अमरकोशः २.८.१२० ) । न ममृषे इति न। किंतु ममृष एवेत्यर्थः ॥
Summary AI With his sharp, crescent-headed arrows, the king often made the rhinoceroses' heads light by cutting off their horns. As one appointed to humble the proud, he could not tolerate the excessive eminence (horns) of others, but he did not take away their long lives.
सारांश AI राजा ने पैने बाणों से गेंडों के सींगों को काट दिया, जिससे उनके सिर हल्के हो गए। उन्होंने उनके अहंकार के प्रतीक ऊंचे सींगों को तो सहन नहीं किया, किंतु उनकी लंबी आयु का अंत नहीं किया।
पदच्छेदः AI
प्रायःप्रायस् Mostly
विषाणपरिमोक्षलघूत्तमाङ्गान्विषाणपरिमोक्षलघुउत्तमाङ्ग (२.३) those whose heads were lightened by the removal of their horns
खड्गान्खड्ग (२.३) rhinoceroses
चकारचकार (√कृ कर्तरि लिट् (परस्मै.) प्र.पु. एक.) made
नृपतिःनृपति (१.१) the king
निक्षितैःनिक्षित (नि√क्षि+क्त, ३.३) with sharpened
क्षुरप्रैःक्षुरप्र (३.३) crescent-shaped arrows
शृङ्गम्शृङ्ग (२.१) eminence/horn
सःतद् (१.१) he
दृप्तविनयाधिकृतःदृप्तविनयअधिकृत (१.१) who was appointed to humble the proud
परेषाम्पर (६.३) of others
अत्युच्छ्रितम्अत्युच्छ्रित (२.१) exceedingly high
not
ममृषेममृषे (√मृष् कर्तरि लिट् (आत्मने.) प्र.पु. एक.) tolerated
not
तुतु but
दीर्घम्दीर्घ (२.१) long
आयुःआयुस् (२.१) life
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
प्रा यो वि षा रि मो क्ष घू त्त मा ङ्गा
न्ख ङ्गां श्च का नृ ति र्नि क्षि तैः क्षु प्रैः
श्रृ ङ्गं दृ प्त वि या धि कृ तः रे षा
त्यु च्छ्रि तं मृ षे तु दी र्घ मा युः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.