हा तातेति क्रन्दितमाकर्ण्य विषण्ण
स्तस्यान्विष्यन्वेतसगूढं प्रभवं सः ।
शल्यप्रोतं प्रेक्षअय सकुम्भं मुनिपुत्रं
तापादन्तःशल्य इवासीत्क्षितिपोऽपि ॥

अन्वयः AI "हा तात" इति क्रन्दितम् आकर्ण्य विषण्णः सः क्षितिपः तस्य वेतस-गूढं प्रभवम् अन्विष्यन्, शल्य-प्रोतं सकुम्भं मुनि-पुत्रं प्रेक्ष्य, तापात् अन्तः-शल्यः इव अपि आसीत्।
सञ्जीविनीटीका (मल्लिनाथः) हा तातेति॥ हेत्यार्तौ। तातो जनकः। हा विषादशुगर्तिषुइति, तातस्तु जनकः पिता इति चामरः। हा तातेति क्रन्दितं क्रोशनमाकर्ण्य। विषण्णो भग्नोत्साहः सन्। तस्य क्रन्दितस्तय वेतसैर्गूढं छन्नम्। प्रभवत्यस्मादिति प्रभवः कारणम्। तमन्विष्यञ्छल्येन शरेण प्रोतं स्यूतम्। शल्यं शङ्कौ शरे वंशेइति विश्वः। सकुम्भं मुनिपुत्रं प्रेक्षअय स क्षितिपोऽपि तापाद्दुःखादन्तःशल्यं यस्य सोऽन्तःशल्य इवासीत्। मत्तमयूरं वृत्तम् ॥
Summary AI Hearing the cry "Ah, father!", the distressed king searched for its source hidden among the reeds. Upon seeing the sage's son pierced by the arrow-head, with his water pot beside him, the king too felt as if he had an arrow lodged within him from grief.
सारांश AI 'हा तात' की पुकार सुनकर दुखी राजा जब झाड़ियों के पास पहुँचे, तो उन्होंने बाण से बिंधे हुए मुनिकुमार को देखा। यह देख राजा स्वयं अत्यंत मर्माहत हो गए।
पदच्छेदः AI
हाहा Ah!
ताततात (८.१) O father!
इतिइति thus
क्रन्दितम्क्रन्दित (√क्रन्द्+क्त, २.१) the cry
आकर्ण्यआकर्ण्य (आ√कर्ण्+ल्यप्) having heard
विषण्णःविषण्ण (वि√सद्+क्त, १.१) distressed
तस्यतत् (६.१) of it (the cry)
अन्विष्यन्अन्विष्यत् (अनु√इष्+शतृ, १.१) searching for
वेतसगूढम्वेतसगूढ (२.१) hidden by reeds
प्रभवम्प्रभव (२.१) the source
सःतत् (१.१) he
शल्यप्रोतम्शल्यप्रोत (२.१) pierced by the arrow-head
प्रेक्ष्यप्रेक्ष्य (प्र√ईक्ष्+ल्यप्) having seen
सकुम्भम्कुम्भ (२.१) with his pot
मुनिपुत्रम्मुनिपुत्र (२.१) the sage's son
तापात्ताप (५.१) from grief
अन्तःशल्यःअन्तर्शल्य (१.१) with an arrow within
इवइव as if
आसीत्आसीत् (√अस् कर्तरि लङ् (परस्मै.) प्र.पु. एक.) he was
क्षितिपःक्षितिप (१.१) the king
अपिअपि also
छन्दः मत्तमयूरम् [१३: मतयसग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५
हा ता ते ति क्र न्दि मा र्ण्य वि ण्ण
स्त स्या न्वि ष्य न्वे गू ढं प्र वं सः
ल्य प्रो तं प्रे क्ष कु म्भं मु नि पु त्रं
ता पा न्तः ल्य वा सी त्क्षि ति पो ऽपि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.