Loading data... On slow networks this could take a few minutes.
100%

नृपतेः प्रतिषिद्धमेव
तत्कृतवान्पङ्क्तिरथो विलङ्घ्य
यत् अपथे पदमर्पयन्त्-
इ हि श्रुतवन्तोऽपि रजोनिमीलि-
ताः

अन्वयः AI पङ्क्तिरथः यत् नृपतेः प्रतिषिद्धम् एव (आसीत्) तत् विलङ्घ्य कृतवान्। हि श्रुतवन्तः अपि रजः-निमीलिताः (सन्तः) अपथे पदम् अर्पयन्ति।
सञ्जीविनीटीका (मल्लिनाथः) नृपतेरिति॥ तत्कर्म नृपतेः क्षत्रियस्य प्रतिषिद्धमेव निषिद्धमेव यदेतत्‌करम् गजवधरूपं पङ्क्तिरथो दशरथो विलङघ्‌य लक्ष्मी कामो युद्धादन्यत्र करिवधं न कुर्यात् इति शास्त्रमुल्लङ्घअय कृतवान्। ननु विदुषस्तस्य कथमीदृग्विचेष्टितमत आह-अपथ इति। श्रुतवन्तोऽपि विद्वांसोऽपि रजोनिमीलिता रजोगुणावृताः सन्तः। न पन्था इत्यपथम्। पथो विभाषा (अष्टाध्यायी ५.४.७२ ) इति वा समासान्तः। अपथं नपुंसकम् (अष्टाध्यायी २.४.३० ) इति नपुंसकम्। अपन्थास्त्वपथं तुल्ये इत्यमरः (अमरकोशः २.१.१८ ) । तस्निन्नपथेऽमार्गे पदमर्पयन्ति हि निक्षिपन्ति हि। प्रवर्तन्त इत्यर्थः। वैतालीयं वृत्तम् ॥
Summary AI Dasaratha did that which was indeed forbidden for a king. For even the learned, when blinded by the dust of passion (rajas), place their foot on the wrong path.
सारांश AI राजा दशरथ ने वह वर्जित कार्य किया जो उन्हें नहीं करना चाहिए था; क्योंकि मोह और रजोगुण से अंधे हुए ज्ञानी पुरुष भी अक्सर गलत मार्ग पर कदम रख देते हैं।
पदच्छेदः AI
नृपतेःनृपति (६.१) for a king
प्रतिषिद्धम्प्रतिषिद्ध (प्रति√सिध्+क्त, २.१) forbidden
एवएव indeed
तत्तत् (२.१) that
कृतवान्कृतवत् (√कृ+क्तवतु, १.१) he did
पङ्क्तिरथःपङ्क्तिरथ (१.१) Panktiratha (Dasaratha)
विलङ्घ्यविलङ्घ्य (वि√लङ्घ्+ल्यप्) having transgressed
यत्यत् (२.१) which
अपथेअपथ (७.१) on the wrong path
पदम्पद (२.१) a step
अर्पयन्तिअर्पयन्ति (√ऋ +णिच् कर्तरि लट् (परस्मै.) प्र.पु. बहु.) they place
हिहि for
श्रुतवन्तःश्रुतवत् (√श्रु+क्तवतु, १.३) the learned
अपिअपि even
रजोनिमीलिताःरजस्निमीलित (१.३) blinded by passion
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
नृ तेः प्र ति षि द्ध मे
त्कृ वा न्प ङ्क्ति थो वि ङ्घ्य यत्
थे र्प न्ति हि
श्रु न्तो ऽपि जो नि मी लि ताः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.