१.१.२०

तस्याभिषेकसंभारान्दृष्ट्वा भार्याथ कैकयी ।
पूर्वं दत्तवरा देवी वरमेनमयाचत ।
विवासनं च रामस्य भरतस्याभिषेचनम् ॥

अन्वयः

अथ thereafter, तस्य Rama's, अभिषेकसम्भारान् preparations for the installation, दृष्ट्वा having seen, पूर्वम् previously, दत्तवरा was promised with boons, भार्या wife, देवी queen, कैकयी Kaikeyi, रामस्य Rama's, विवासनम् exile, भरतस्य of Bharata, अभिषेचनम् enthronement, वरम् boon, एनम् अयाचत begged of Dasaratha.

M N Dutt

Beholding the provisions of the installation, that lady the king's consort, Kaikeyī, who had previously been promised two boons, even asked him for those viz., the exile of Ráma, and the installation of Bharata.

Summary

Thereafter, having seen the preparations for installation of Rama, queen Kaikeyi who had been promised earlier with boons by Dasaratha demanded of him the exile of Rama and enthronement of Bharata.

पदच्छेदः

तस्याभिषेकसम्भारान्तद् (६.१)–अभिषेक–सम्भार (२.३)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
भार्याथभार्या (१.१)–अथ (अव्ययः)
कैकयीकैकयी (१.१)
पूर्वंपूर्वम् (अव्ययः)
दत्तवरादत्त (√दा + क्त)–वर (१.१)
देवीदेवी (१.१)
वरम्वर (२.१)
एनम्एनद् (२.१)
अयाचतअयाचत (√याच् लङ् प्र.पु. एक.)
विवासनंविवासन (२.१)
(अव्ययः)
रामस्यराम (६.१)
भरतस्याभिषेचनम्भरत (६.१)–अभिषेचन (२.१)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
स्याभि षे सं भा रा न्दृ ष्ट्वा भा र्या
कै यी पू र्वंत्त रा दे वी
मे यावि वा नं
रास्य स्याभि षे नम्