१.११.१

ततः काले बहुतिथे कस्मिंश्चित्सुमनोहरे ।
वसन्ते समनुप्राप्ते राज्ञो यष्टुं मनोऽभवत् ॥

अन्वयः

तत: afterwards, बहुतिथे काले after a lapse of long time, सुमनोहरे charming, कस्मिंश्चित् some time, वसन्ते spring season, समनुप्राप्ते having arrived, राज्ञ: for the king, यष्टुम् to perform sacrifice, मन: अभवत् desire arose.

M N Dutt

Then after a long while, when the charming spring had appeared on the earth, the king conceived the desire of celebrating the sacrifice.

Summary

After a long time, at the advent of charming spring a desire arose in the mind of the king (Dasaratha) to perform the sacrifice.

पदच्छेदः

ततःततस् (अव्ययः)
कालेकाल (७.१)
बहुतिथेबहुतिथ (७.१)
कस्मिंश्चित्कश्चित् (७.१)
सुमनोहरेसु (अव्ययः)–मनोहर (७.१)
वसन्तेवसन्त (७.१)
समनुप्राप्तेसमनुप्राप्त (√समनुप्र-आप् + क्त, ७.१)
राज्ञोराजन् (६.१)
यष्टुंयष्टुम् (√यज् + तुमुन्)
मनोमनस् (१.१)
ऽभवत्अभवत् (√भू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तः का लेहुति थे
स्मिं श्चित्सु नो रे
न्ते नु प्रा प्ते
रा ज्ञो ष्टुं नोऽभ वत्