१.१२.१३

न चावज्ञा प्रयोक्तव्या कामक्रोधवशादपि ।
यज्ञकर्मसु येऽव्यग्राः पुरुषाः शिल्पिनस्तथा ॥

पदच्छेदः

(अव्ययः)
चावज्ञा (अव्ययः)–अवज्ञा (१.१)
प्रयोक्तव्याप्रयोक्तव्य (√प्र-युज् + कृत्, १.१)
कामक्रोधवशाद्काम–क्रोध–वश (५.१)
अपिअपि (अव्ययः)
यज्ञकर्मसुयज्ञ–कर्मन् (७.३)
येयद् (१.३)
ऽव्यग्राःअव्यग्र (१.३)
पुरुषाःपुरुष (१.३)
शिल्पिनस्शिल्पिन् (१.३)
तथातथा (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

चा ज्ञाप्र यो क्त व्या
का क्रो शापि
ज्ञर्मसु ये ऽव्य ग्राः
पुरु षाः शिल्पिस्त था