१.१२.१२

दातव्यमन्नं विधिवत्सत्कृत्य न तु लीलया ।
सर्वे वर्णा यथा पूजां प्राप्नुवन्ति सुसत्कृताः ॥

पदच्छेदः

दातव्यम्दातव्य (√दा + कृत्, १.१)
अन्नंअन्न (१.१)
विधिवत्विधिवत् (अव्ययः)
सत्कृत्यसत्कृत्य (√सत्-कृ + ल्यप्)
(अव्ययः)
तुतु (अव्ययः)
लीलयालीला (३.१)
सर्ववर्णासर्व–वर्ण (१.३)
यथायथा (अव्ययः)
पूजांपूजा (२.१)
प्राप्नुवन्तिप्राप्नुवन्ति (√प्र-आप् लट् प्र.पु. बहु.)
सुसत्कृताःसु (अव्ययः)–सत्कृत (√सत्-कृ + क्त, १.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दाव्य न्नंविधि
त्स त्कृत्यतु ली या
र्वे र्णा था पू जां
प्राप्नुन्तिसुत्कृ ताः