१.१२.१५

तथा भवन्तः कुर्वन्तु प्रीतिस्निग्धेन चेतसा ।
ततः सर्वे समागम्य वसिष्ठमिदमब्रुवन् ॥

पदच्छेदः

तथातथा (अव्ययः)
भवन्तःभवत् (१.३)
कुर्वन्तुकुर्वन्तु (√कृ लोट् प्र.पु. बहु.)
प्रीतिस्निग्धेनप्रीति–स्निग्ध (३.१)
चेतसाचेतस् (३.१)
ततःततस् (अव्ययः)
सर्वेसर्व (१.३)
समागम्यसमागम्य (√समा-गम् + ल्यप्)
वसिष्ठम्वसिष्ठ (२.१)
इदम्इदम् (२.१)
अब्रुवन्अब्रुवन् (√ब्रू लङ् प्र.पु. बहु.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

था न्तः कु र्वन्तु
प्री ति स्नि ग्धे चे सा
तः र्वे माम्य
सिष्ठमिब्रु वन्