१.१२.२

अब्रवीत्प्रश्रितं वाक्यं प्रसवार्थं द्विजोत्तमम् ।
यज्ञो मे क्रियतां विप्र यथोक्तं मुनिपुंगव ॥

पदच्छेदः

अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
प्रश्रितंप्रश्रित (२.१)
वाक्यंवाक्य (२.१)
प्रसवार्थंप्रसव–अर्थ (२.१)
द्विजोत्तमम्द्विजोत्तम (२.१)
यज्ञोयज्ञ (१.१)
मेमद् (६.१)
क्रियतांक्रियताम् (√कृ प्र.पु. एक.)
विप्रविप्र (८.१)
यथोक्तंयथोक्तम् (अव्ययः)
मुनिपुंगवमुनि–पुंगव (८.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ब्र वी त्प्रश्रि तं वा क्यं
प्र वा र्थंद्वि जोत्त मम्
ज्ञो मेक्रि तां विप्र
थो क्तंमुनि पुं