१.१२.३१

मयापि सत्कृताः सर्वे यथार्हं राजसत्तमाः ।
यज्ञियं च कृतं राजन्पुरुषैः सुसमाहितैः ॥

पदच्छेदः

मयापिमद् (३.१)–अपि (अव्ययः)
सत्कृताःसत्कृत (√सत्-कृ + क्त, १.३)
सर्वेसर्व (१.३)
यथार्हंयथार्ह (२.१)
राजसत्तमाःराजन्–सत्तम (१.३)
यज्ञियंयज्ञिय (१.१)
(अव्ययः)
कृतंकृत (√कृ + क्त, १.१)
राजन्राजन् (८.१)
पुरुषैःपुरुष (३.३)
सुसमाहितैःसु (अव्ययः)–समाहित (३.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

यापित्कृ ताः र्वे
था र्हं रात्त माः
ज्ञि यंकृ तं रा
न्पुरु षैःसु माहि तैः