१.१५.१३

दिव्यपायससंपूर्णां पात्रीं पत्नीमिव प्रियाम् ।
प्रगृह्य विपुलां दोर्भ्यां स्वयं मायामयीमिव ॥

पदच्छेदः

दिव्यपायससम्पूर्णांदिव्य–पायस–सम्पूर्ण (√सम्-पृ + क्त, २.१)
पात्रींपात्री (२.१)
पत्नीम्पत्नी (२.१)
इवइव (अव्ययः)
प्रियाम्प्रिय (२.१)
प्रगृह्यप्रगृह्य (√प्र-ग्रह् + ल्यप्)
विपुलांविपुल (२.१)
दोर्भ्यांदोस् (५.३)
स्वयंस्वयम् (अव्ययः)
मायामयीम्माया–मय (२.१)
इवइव (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दिव्य पा सं पू र्णां
पा त्रीं त्नीमिप्रि याम्
प्र गृह्यविपु लां दो र्भ्यां
स्व यं मा या यीमि