१.१६.४

असंहार्यानुपायज्ञान्दिव्यसंहननान्वितान् ।
सर्वास्त्रगुणसंपन्नानमृतप्राशनानिव ॥

पदच्छेदः

असंहार्यान्असंहार्य (२.३)
उपायज्ञान्उपाय–ज्ञ (२.३)
दिव्यसंहननान्वितान्दिव्य–संहनन–अन्वित (२.३)
सर्वास्त्रगुणसम्पन्नान्सर्व–अस्त्र–गुण–सम्पन्न (√सम्-पद् + क्त, २.३)
अमृतप्राशनान्अमृत–प्राशन (२.३)
इवइव (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सं हा र्यानु पा ज्ञा
न्दिव्य सं नान्वि तान्
र्वास्त्रगु सं न्ना
मृ प्रा नानि