१.२.२७

पापात्मना कृतं कष्टं वैरग्रहणबुद्धिना ।
यस्तादृशं चारुरवं क्रौञ्चं हन्यादकारणात् ॥

अन्वयः

य: that hunter, तादृशम् such, चारुरवम् sweet voiced, क्रौञ्चम् krauncha bird, अकारणात् without cause, हन्यात् killed, वैरग्रहणबुद्धिना with hostile feeling of capturing it, पापात्मना sinful minded, कष्टं(कर्म) act, कृतम् was done.

Summary

The hunter killed the sweetvoiced krauncha without any cause. That sinfulminded one with hostile feeling of capturing it, had perpetrated this cruel act, he thought.

पदच्छेदः

पापात्मनापाप–आत्मन् (३.१)
कृतंकृत (√कृ + क्त, १.१)
कष्टंकष्ट (१.१)
वैरग्रहणबुद्धिनावैर–ग्रहण–बुद्धि (३.१)
यस्यद् (१.१)
तादृशंतादृश् (२.१)
चारुरवंचारु–रव (२.१)
क्रौञ्चंक्रौञ्च (२.१)
हन्याद्हन्यात् (√हन् विधिलिङ् प्र.पु. एक.)
अकारणात्अकारण (५.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

पा पात्म नाकृ तं ष्टं
वैग्र बुद्धि ना
स्तादृ शं चारु वं
क्रौ ञ्चं न्या का णात्