१.२.२८

शोचन्नेव मुहुः क्रौञ्चीमुपश्लोकमिमं पुनः ।
जगावन्तर्गतमना भूत्वा शोकपरायणः ॥

अन्वयः

शोकपरायण: engrossed in grief, अन्तर्गतमना: भूत्वा having been introspective, मुहु: again and again, क्रौञ्चीम् एव about female krauncha bird, शोचन् lamenting, पुन: again, इमम् श्लोकम् this sloka, जगौ recited.

Summary

Griefstricken, Valmiki having become introspective and lamenting the plight of the female krauncha again and again, recited this sloka.

पदच्छेदः

शोचन्न्शोचत् (√शुच् + शतृ, १.१)
एवएव (अव्ययः)
मुहुःमुहुर् (अव्ययः)
क्रौञ्चीम्क्रौञ्ची (२.१)
उपश्लोकम्उपश्लोक (२.१)
इमंइदम् (२.१)
पुनःपुनर् (अव्ययः)
जगाव्जगौ (√गा लिट् प्र.पु. एक.)
अन्तर्गतमनाअन्तर्गतमनस् (१.१)
भूत्वाभूत्वा (√भू + क्त्वा)
शोकपरायणःशोक–परायण (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

शो न्नेमु हुः क्रौ ञ्ची
मु श्लोमि मंपु नः
गा न्तर्ग ना
भू त्वा शो रा णः