१.२६.१३

धारयन्त्यसुरा यानि ददाम्येतानि सर्वशः ।
वैद्याधरं महास्त्रं च नन्दनं नाम नामतः ॥

पदच्छेदः

धारयन्त्य्धारयन्ति (√धारय् लट् प्र.पु. बहु.)
असुराअसुर (१.३)
यानियद् (२.३)
ददाम्य्ददामि (√दा लट् उ.पु. )
एतानिएतद् (२.३)
सर्वशःसर्वशस् (अव्ययः)
वैद्याधरंवैद्याधर (२.१)
महास्त्रंमहत्–अस्त्र (२.१)
(अव्ययः)
नन्दनंनन्दन (२.१)
नामनाम (अव्ययः)
नामतःनामन् (५.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

धान्त्यसु रा यानि
दा म्ये तानिर्व शः
वै द्या रं हा स्त्रं
न्द नं ना ना तः