१.२६.१४

असिरत्नं महाबाहो ददामि नृवरात्मज ।
गान्धर्वमस्त्रं दयितं मानवं नाम नामतः ॥

पदच्छेदः

असिरत्नंअसि–रत्न (२.१)
महाबाहोमहत्–बाहु (८.१)
ददामिददामि (√दा लट् उ.पु. )
नृवरात्मजनृ–वर–आत्मज (८.१)
गान्धर्वम्गान्धर्व (२.१)
अस्त्रंअस्त्र (२.१)
दयितंदयित (२.१)
मानवंमानव (२.१)
नामनाम (अव्ययः)
नामतःनामन् (५.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सि त्नं हा बा हो
दामिनृ रात्म
गा न्धर्व स्त्रंयि तं
मा वं ना ना तः