१.२७.११

रामं प्राञ्जलयो भूत्वाब्रुवन्मधुरभाषिणः ।
इमे स्म नरशार्दूल शाधि किं करवाम ते ॥

पदच्छेदः

रामंराम (२.१)
प्राञ्जलयोप्राञ्जलि (१.३)
भूत्वाब्रुवन्भूत्वा (√भू + क्त्वा)–अब्रुवन् (√ब्रू लङ् प्र.पु. बहु.)
मधुरभाषिणःमधुर–भाषिन् (१.३)
इमेइदम् (१.३)
स्मस्म (अव्ययः)
नरशार्दूलनर–शार्दूल (८.१)
शाधिशाधि (√शास् लोट् म.पु. )
किं (२.१)
करवामकरवाम (√कृ लोट् उ.पु. द्वि.)
तेत्वद् (४.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रा मं प्राञ्ज यो भू त्वा
ब्रुन्मधु भाषि णः
मेस्म शा र्दू
शाधि किं वा ते