१.३९.९

तेषां तद्वचनं श्रुत्वा पुत्राणां राजसत्तमः ।
समन्युरब्रवीद्वाक्यं सगरो रघुनन्दन ॥

अन्वयः

रघुनन्दन O Rama, तेषां पुत्राणाम् of those sons', तद्वचनम् those words, श्रुत्वा having heard, राजसत्तम: magnanimous king, सगर: Sagara, समन्यु: incensed, वाक्यम् words, अब्रवीत् said.

M N Dutt

Hearing those words of his sons, that foremost of kings, getting into a wrath, said, O descendant of Raghu.

Summary

"O Rama incensed to fury at the words of his sons, magnanimous king Sagara replied":

पदच्छेदः

तेषांतद् (६.३)
तद्तद् (२.१)
वचनंवचन (२.१)
श्रुत्वाश्रुत्वा (√श्रु + क्त्वा)
पुत्राणांपुत्र (६.३)
राजसत्तमःराजन्–सत्तम (१.१)
समन्युर् (अव्ययः)–मन्यु (१.१)
अब्रवीद्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
वाक्यंवाक्य (२.१)
सगरोसगर (१.१)
रघुनन्दनरघुनन्दन (८.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ते षांद्व नं श्रु त्वा
पु त्रा णां रात्त मः
न्युब्र वी द्वा क्यं
रोघुन्द