१.४.१२

ऋषीणां च द्विजातीनां साधूनां च समागमे ।
यथोपदेशं तत्त्वज्ञौ जगतुस्तौ समाहितौ ।
महात्मानौ महाभागौ सर्वलक्षणलक्षितौ ॥

पदच्छेदः

ऋषीणांऋषि (६.३)
(अव्ययः)
द्विजातीनांद्विजाति (६.३)
साधूनांसाधु (६.३)
(अव्ययः)
समागमेसमागम (७.१)
यथोपदेशंयथा (अव्ययः)–उपदेश (२.१)
तत्त्वज्ञौतत्त्व–ज्ञ (१.२)
जगतुस्जगतुः (√गा लिट् प्र.पु. द्वि.)
तौतद् (१.२)
समाहितौसमाहित (१.२)
महात्मानौमहात्मन् (१.२)
महाभागौमहाभाग (१.२)
सर्वलक्षणलक्षितौसर्व–लक्षण–लक्षित (√लक्ष् + क्त, १.२)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
षी णांद्वि जा ती नां सा धू नां
मा मे थो दे शं त्त्व ज्ञौ
तु स्तौ माहि तौ हा त्मा नौ
हा भा गौर्वक्षक्षि तौ