१.४.६

काव्यं रामायणं कृत्स्नं सीतायाश्चरितं महत् ।
पौलस्त्य वधमित्येव चकार चरितव्रतः ॥

अन्वयः

चरितव्रत: (Valmiki) one who practised religious vows, कृत्स्नम् entire, काव्यम् epic, रामायणम् the Ramayana, सीताया: महत् चरितम् Sita's great history, पौलस्त्यवधम् इत्येव the slaying of Paulastya etc, चकार composed.

Summary

Valmiki who practised religious austerities composed this entire epic named the Ramayana which constitutes the great history of Sita and the killing of Paulastya (Ravana).

पदच्छेदः

काव्यंकाव्य (२.१)
रामायणंरामायण (२.१)
कृत्स्नंकृत्स्न (२.१)
सीतायाश्सीता (६.१)
चरितंचरित (२.१)
महत्महत् (२.१)
पौलस्त्यवधम्पौलस्त्य–वध (२.१)
इत्य्इति (अव्ययः)
एवएव (अव्ययः)
चकारचकार (√कृ लिट् प्र.पु. एक.)
चरितव्रतःचरित (√चर् + क्त)–व्रत (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

का व्यं रा मा णं कृ त्स्नं
सी ता याश्चरि तं हत्
पौस्त्य मि त्ये
कारिव्र तः