१.४.८

हास्यशृङ्गारकारुण्यरौद्रवीरभयानकैः ।
बीभत्सादिरसैर्युक्तं काव्यमेतदगायताम् ॥

पदच्छेदः

हास्यशृङ्गारकारुण्यरौद्रवीरभयानकैःहास्य–शृङ्गार–कारुण्य–रौद्र–वीर–भयानक (३.३)
बीभत्सादिरसैर्बीभत्सा–आदि–रस (३.३)
युक्तंयुक्त (√युज् + क्त, २.१)
काव्यम्काव्य (२.१)
एतद्एतद् (२.१)
अगायताम्अगायताम् (√गा लङ् प्र.पु. द्वि.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

हास्य शृ ङ्गा का रुण्य
रौद्र वी या कैः
बी त्सादि सै र्यु क्तं
काव्य मे गा ताम्