१.४१.७

तस्य चिन्तयतो नित्यं धर्मेण विदितात्मनः ।
पुत्रो भगीरथो नाम जज्ञे परमधार्मिकः ॥

अन्वयः

विदितात्मन: wellknown for his intelligence, धर्मेण with righteousness, नित्यम् constantly, चिन्तयत: while reflecting, तस्य for him, भगीरथो नाम named Bhagiratha, परमधार्मिक: highly virtuous, पुत्र: son, जज्ञे was born.

M N Dutt

As that pious one furnished with selfknowledge was always meditating upon this, an eminently virtuous son was born to him named Bhagiratha.

Summary

As Dilipa known for his knowledge of the soul constantly reflected righteously on (this matter of Ganga), a highly virtuous son named Bhagiratha was born to him.

पदच्छेदः

तस्यतद् (६.१)
चिन्तयतोचिन्तयत् (√चिन्तय् + शतृ, ६.१)
नित्यंनित्यम् (अव्ययः)
धर्मेणधर्म (३.१)
विदितात्मनःविदित (√विद् + क्त)–आत्मन् (६.१)
पुत्रोपुत्र (१.१)
भगीरथोभगीरथ (१.१)
नामनाम (अव्ययः)
जज्ञेजज्ञे (√जन् लिट् प्र.पु. एक.)
परमधार्मिकःपरम–धार्मिक (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्य चिन्त तो नि त्यं
र्मेविदि तात्म नः
पु त्रो गी थो ना
ज्ञे धार्मि कः