१.४२.४

ततो हैमवती ज्येष्ठा सर्वलोकनमस्कृता ।
तदा सातिमहद्रूपं कृत्वा वेगं च दुःसहम् ।
आकाशादपतद्राम शिवे शिवशिरस्युत ॥

अन्वयः

राम O Rama, तत: thereafter, हैमवती daughter of Himvat, सर्वलोकनमस्कृता adored by all worlds, ज्येष्ठा eldest (गङ्गा Ganga), तदा then, अति महत् mighty, रूपं form, दस्सहम् unbearable, वेगं speed, कृत्वा having assumed, आकाशात् from the sky, शिवे on the auspicious, शिवशिरसि on the head of Siva, अपतत् उत fell down.

M N Dutt

Then, O Rāma. that one bowed to by all creatures, the elder daughter of Himavat, assuming an exceedingly mighty shape, with irresistible impetus precipitated herself from the welkin upon Siva's gracious head.

Summary

Then Ganga, the eldest daughter of Himavat who is adored by all the worlds, assuming the form of a mighty river descended from the sky with unbearable speed on the auspicious head of Siva.

पदच्छेदः

ततोततस् (अव्ययः)
हैमवतीहैमवती (१.१)
ज्येष्ठाज्येष्ठ (१.१)
सर्वलोकनमस्कृतासर्व–लोक–नमस्कृत (√नमस्-कृ + क्त, १.१)
तदातदा (अव्ययः)
सातिमहद्तद् (१.१)–अति (अव्ययः)–महत् (२.१)
रूपंरूप (२.१)
कृत्वाकृत्वा (√कृ + क्त्वा)
वेगंवेग (२.१)
(अव्ययः)
दुःसहम्दुःसह (२.१)
आकाशाद्आकाश (५.१)
अपतद्अपतत् (√पत् लङ् प्र.पु. एक.)
रामराम (८.१)
शिवेशिव (७.१)
शिवशिरस्य्शिव–शिरस् (७.१)
उतउत (अव्ययः)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
तो है ती ज्ये ष्ठार्व लो
स्कृ ता दा साति द्रू पं
कृ त्वा वे गं दुः हम् का शा
द्राशि वेशिशिस्यु