१.४३.५

इयं च दुहिता ज्येष्ठा तव गङ्गा भविष्यति ।
त्वत्कृतेन च नाम्ना वै लोके स्थास्यति विश्रुता ॥

अन्वयः

इयम् this, गङ्गा Ganga, तव your, ज्येष्ठा eldest, दुहिता daughter, भविष्यति will become, अथ from now onwards, त्वत्कृतेन formed out of your, नाम्ना name, लोके in this world, विश्रुता wellknown, स्थास्यति will stay on.

M N Dutt

This Gangā shall become your eldest daughter; and she shall attain celebrity among all, being called after your name.

Summary

This Ganga will become your eldest daughter and from now on she will be wellknown in this world (as Bhagirathi) after your name.

पदच्छेदः

इयंइदम् (१.१)
(अव्ययः)
दुहितादुहितृ (१.१)
ज्येष्ठाज्येष्ठ (१.१)
तवत्वद् (६.१)
गङ्गागङ्गा (१.१)
भविष्यतिभविष्यति (√भू लृट् प्र.पु. एक.)
त्वत्कृतेनत्वद्–कृत (√कृ + क्त, ३.१)
(अव्ययः)
नाम्नानामन् (३.१)
वैवै (अव्ययः)
लोकेलोक (७.१)
स्थास्यतिस्थास्यति (√स्था लृट् प्र.पु. एक.)
विश्रुताविश्रुत (√वि-श्रु + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

यंदुहि ता ज्ये ष्ठा
ङ्गा विष्यति
त्वत्कृ ते ना म्ना वै
लो के स्थास्यति विश्रु ता