१.४३.७

पितामहानां सर्वेषां त्वमत्र मनुजाधिप ।
कुरुष्व सलिलं राजन्प्रतिज्ञामपवर्जय ॥

अन्वयः

मनुजाधिप O Lord of men, राजन् O King, त्वम् you, अत्र here, सर्वेषाम् for all, पितामहानाम् ancestors, सलिलं offerings with waters, कुरुष्व perform, प्रतिज्ञाम् your vow, अपवर्जय fulfil.

M N Dutt

Do you now, O lord of men, her offer oblations of water to your grand-sires, and thereby, O king, make good your promise.

Summary

O Lord of men O King you may offer the waters of Ganga here to all your ancestors and thereby fulfil your vow.

पदच्छेदः

पितामहानांपितामह (६.३)
सर्वेषांसर्व (६.३)
त्वम्त्वद् (१.१)
अत्रअत्र (अव्ययः)
मनुजाधिपमनुज–अधिप (८.१)
कुरुष्वकुरुष्व (√कृ लोट् म.पु. )
सलिलंसलिल (२.१)
राजन्राजन् (८.१)
प्रतिज्ञाम्प्रतिज्ञा (२.१)
अपवर्जयअपवर्जय (√अप-वर्जय् लोट् म.पु. )

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

पि ता हा नां र्वे षां
त्वत्रनु जाधि
कु रुष्वलि लं रा
न्प्र ति ज्ञार्ज