१.५.२१

सिंहव्याघ्रवराहाणां मत्तानां नदतां वने ।
हन्तारो निशितैः शस्त्रैर्बलाद्बाहुबलैरपि ॥

पदच्छेदः

सिंहव्याघ्रवराहाणांसिंह–व्याघ्र–वराह (६.३)
मत्तानांमत्त (√मद् + क्त, ६.३)
नदतांनदत् (√नद् + शतृ, ६.३)
वनेवन (७.१)
हन्तारोहन्तृ (१.३)
निशितैःनिशित (√नि-शा + क्त, ३.३)
शस्त्रैर्शस्त्र (३.३)
बलाद्बल (५.१)
बाहुबलैर्बाहु–बल (३.३)
अपिअपि (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सिं व्याघ्र रा हा णां
त्ता नां तां ने
न्ता रोनिशि तैः स्त्रै
र्ब ला द्बाहु लैपि