१.५.२२

तादृशानां सहस्रैस्तामभिपूर्णां महारथैः ।
पुरीमावासयामास राजा दशरथस्तदा ॥

पदच्छेदः

तादृशानांतादृश (६.३)
सहस्रैस्सहस्र (३.३)
ताम्तद् (२.१)
अभिपूर्णांअभिपूर्ण (√अभि-पृ + क्त, २.१)
महारथैःमहत्–रथ (३.३)
पुरीम्पुरी (२.१)
आवासयामासआवासयामास (√आ-वासय् प्र.पु. एक.)
राजाराजन् (१.१)
दशरथस्दशरथ (१.१)
तदातदा (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तादृ शा नां स्रै स्ता
भि पू र्णां हा थैः
पु री मा वा या मा
रा जास्त दा