१.५५.६

वारुणं चैव रौद्रं च ऐन्द्रं पाशुपतं तथा ।
ऐषीकं चापि चिक्षेप रुषितो गाधिनन्दनः ॥

अन्वयः

कुपित: incensed, गाधिनन्दन: son of Gadhi, वारुणं चैव Varuna weapon, रौद्रं च Raudra, ऐन्द्रं च Aindra, तथा and, पाशुपतम् Pasupata, ऐषीकं चापि Aishika, चिक्षेप employed or discharged.

M N Dutt

Then Gādhi's son, waxing wroth, discharged Vāruņa and Raudra and Aindra and Pāśupata and Aișika weapons.

Summary

The incensed son of Gadhi employed varuna, raudra, aindra, pasupata and aishika weapons.

पदच्छेदः

वारुणंवारुण (२.१)
चैव (अव्ययः)–एव (अव्ययः)
रौद्रंरौद्र (२.१)
(अव्ययः)
ऐन्द्रंऐन्द्र (२.१)
पाशुपतंपाशुपत (२.१)
तथातथा (अव्ययः)
ऐषीकंऐषीक (२.१)
चापि (अव्ययः)–अपि (अव्ययः)
चिक्षेपचिक्षेप (√क्षिप् लिट् प्र.पु. एक.)
रुषितोरुषित (√रुष् + क्त, १.१)
गाधिनन्दनःगाधिनन्दन (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वारु णं चै रौ द्रं
न्द्रं पाशु तं था
षी कं चापि चि क्षे
रुषि तो गाधिन्द नः