१.६.१५

न दीनः क्षिप्तचित्तो वा व्यथितो वापि कश्चन ।
कश्चिन्नरो वा नारी वा नाश्रीमान्नाप्यरूपवान् ।
द्रष्टुं शक्यमयोध्यायां नापि राजन्यभक्तिमान् ॥

अन्वयः

अयोध्यायाम् in Ayodhya, नरो वा man, नारी वा or woman, कश्चित् even one, अश्रीमान् not endowed with wealth, अरूपवान् अपि without beauty, द्रष्टुम् to see , न शक्यम् not possible, राजनि in the king, अभक्तिमान् not devoted, न none.

M N Dutt

And no man and no woman was seen devoid of grace or beauty, or lacking in reverence for their monarch.

Summary

In Ayodhya, there was no man or woman who was not endowed with wealth or beauty. It was not possible to see any one who had no devotion for the king.

पदच्छेदः

(अव्ययः)
दीनःदीन (१.१)
क्षिप्तचित्तोक्षिप्त (√क्षिप् + क्त)–चित्त (१.१)
वावा (अव्ययः)
व्यथितोव्यथित (√व्यथ् + क्त, १.१)
वापिवा (अव्ययः)–अपि (अव्ययः)
कश्चनकश्चन (१.१)
कश्चिन्कश्चित् (१.१)
नरोनर (१.१)
वावा (अव्ययः)
नारीनारी (१.१)
वावा (अव्ययः)
नाश्रीमान् (अव्ययः)–अश्रीमत् (१.१)
नाप्य् (अव्ययः)–अपि (अव्ययः)
अरूपवान्अरूपवत् (१.१)
द्रष्टुंद्रष्टुम् (√दृश् + तुमुन्)
शक्यम्शक्य (१.१)
अयोध्यायांअयोध्या (७.१)
नापि (अव्ययः)–अपि (अव्ययः)
राजन्यभक्तिमान्राजन् (७.१)–अभक्तिमत् (१.१)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
दी नः क्षिप्त चि त्तो वाव्यथि तो वा
पिश्च श्चिन्न रो वा ना री वा
ना श्री मा न्नाप्य रू वान् द्र ष्टुंक्य
यो ध्या यां नापि रान्यक्ति मान्