१.६०.१२

तमुवाच महातेजाः प्रणम्याभिप्रसाद्य च ।
ब्रह्मर्षिं तपसा दीप्तं राजर्षिरमितप्रभः ।
पृष्ट्वा सर्वत्र कुशलमृचीकं तमिदं वचः ॥

अन्वयः

महातेजा: most brilliant, अमितप्रभ: extremely resplendent, तपसा with penance, दीप्तम् shining, तम् ब्रह्मर्षिम् that Brahmarshi, प्रणम्य bowing before him, अभिप्रसाद्य च having propitiated him, सर्वत्र in all, कुशलम् welfare, पृष्ट्वा having enquired, तं ऋचीकम् addressing that sage Richika, इदम् these, वच: words, उवाच spoke.

Summary

The most brilliant king(Ambarisha) bowing to sage Richika, a brahmarshi who looked extremely resplendent with penance, propitiated him, enquired about the welfare of all and finally said":

पदच्छेदः

तम्तद् (२.१)
उवाचउवाच (√वच् लिट् प्र.पु. एक.)
महातेजाःमहत्–तेजस् (१.१)
प्रणम्याभिप्रसाद्यप्रणम्य (√प्र-नम् + ल्यप्)–अभिप्रसाद्य (√अभिप्र-सादय् + ल्यप्)
(अव्ययः)
ब्रह्मर्षिंब्रह्मर्षि (२.१)
तपसातपस् (३.१)
दीप्तंदीप्त (√दीप् + क्त, २.१)
राजर्षिर्राजर्षि (१.१)
अमितप्रभःअमित–प्रभा (१.१)
पृष्ट्वापृष्ट्वा (√प्रच्छ् + क्त्वा)
सर्वत्रसर्वत्र (अव्ययः)
कुशलम्कुशल (२.१)
ऋचीकंऋचीक (२.१)
तम्तद् (२.१)
इदंइदम् (२.१)
वचःवचस् (२.१)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
मु वा हा ते जाःप्र म्याभि
प्र साद्य ब्र ह्म र्षिं सा दी प्तं
रार्षिमिप्र भः पृ ष्ट्वार्व
त्रकुमृ ची कंमि दं चः