१.६०.१६

ऋचीकस्य वचः श्रुत्वा तेषां माता महात्मनाम् ।
उवाच नरशार्दूलमम्बरीषं तपस्विनी ॥

अन्वयः

ऋचीकस्य Richika's, वच: words, श्रुत्वा having listened, महात्मनाम् of illustrious ones, तेषाम् theirs, माता mother, तपस्विनी a woman in misery, नरशार्दूलम् foremost of men, अम्बरीषम् addressing Ambarisha, उवाच spoke.

Summary

Having heard Richika, the miserable mother of great sons, addressed Ambarisha, the foremost of men, saying:

पदच्छेदः

ऋचीकस्यऋचीक (६.१)
वचःवचस् (२.१)
श्रुत्वाश्रुत्वा (√श्रु + क्त्वा)
तेषांतद् (६.३)
मातामातृ (१.१)
महात्मनाम्महात्मन् (६.३)
उवाचउवाच (√वच् लिट् प्र.पु. एक.)
नरशार्दूलम्नर–शार्दूल (२.१)
अम्बरीषंअम्बरीष (२.१)
तपस्विनीतपस्विनी (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

चीस्य चः श्रु त्वा
ते षां मा ता हात्म नाम्
वा शा र्दू
म्ब री षंस्वि नी