१.६०.१५

एवमुक्तो महातेजा ऋचीकस्त्वब्रवीद्वचः ।
नाहं ज्येष्ठं नरश्रेष्ठं विक्रीणीयां कथंचन ॥

अन्वयः

एवम् thus, उक्त: spoken, महातेजाः exceedingly brilliant, ऋचीकस्तु Richika, वच: these words, अब्रवीत् spoke, नरश्रेष्ठ O Best among men, अहम् I, कथञ्चन in any way, ज्येष्ठम् eldest one, न विक्रीणीयाम् will not sell.

Summary

Thus addressed the exceedingly brilliant Richika said, "O Best among men in no way shall I sell my first born".

पदच्छेदः

एवम्एवम् (अव्ययः)
उक्तोउक्त (√वच् + क्त, १.१)
महातेजामहत्–तेजस् (१.१)
ऋचीकस्ऋचीक (१.१)
त्व्तु (अव्ययः)
अब्रवीद्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
वचःवचस् (२.१)
नाहं (अव्ययः)–मद् (१.१)
ज्येष्ठंज्येष्ठ (२.१)
नरश्रेष्ठनर–श्रेष्ठ (८.१)
विक्रीणीयांविक्रीणीयाम् (√वि-क्री विधिलिङ् उ.पु. )
कथंचनकथंचन (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मु क्तो हा ते जा
ची स्त्वब्र वीद्व चः
ना हं ज्ये ष्ठं श्रे ष्ठं
वि क्री णी यां थं