१.६१.६

स्वर्गलोकमुपाश्नीयां तपस्तप्त्वा ह्यनुत्तमम् ।
स मे नाथो ह्यनाथस्य भव भव्येन चेतसा ।
पितेव पुत्रं धर्मात्मंस्त्रातुमर्हसि किल्बिषात् ॥

अन्वयः

अनाथस्य an orphan as i am, मे to me, त्वम् you, भव्येन with auspicious, चेतसा mind, नाथ: lord, भव be, धर्मात्मन् O virtuous one, पिता father, पुत्रमिव like son, किल्बिषात् from sin, त्रातुम् to protect, अर्ह्रसि behoves of you.

Summary

O Virtuous one with a kind heart protect this orphan. Like a father who protects his son, save me from this peril".

पदच्छेदः

स्वर्गलोकम्स्वर्ग–लोक (२.१)
उपाश्नीयांउपाश्नीयाम् (√उप-अश् विधिलिङ् उ.पु. )
तपस्तपस् (२.१)
तप्त्वातप्त्वा (√तप् + क्त्वा)
ह्य्हि (अव्ययः)
अनुत्तमम्अनुत्तम (२.१)
तद् (१.१)
मेमद् (६.१)
नाथोनाथ (१.१)
ह्य्हि (अव्ययः)
अनाथस्यअनाथ (६.१)
भवभव (√भू लोट् म.पु. )
भव्येनभव्य (३.१)
चेतसाचेतस् (३.१)
पितेवपितृ (१.१)–इव (अव्ययः)
पुत्रंपुत्र (२.१)
धर्मात्मंस्धर्म–आत्मन् (८.१)
त्रातुम्त्रातुम् (√त्रा + तुमुन्)
अर्हसिअर्हसि (√अर्ह् लट् म.पु. )
किल्बिषात्किल्बिष (५.१)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
स्वर्ग लोमु पा श्नी यां स्त प्त्वा
ह्य नुत्त मम् मे ना थोह्य नास्य
व्ये चे सापि तेपु
त्रं र्मा त्मं स्त्रातुर्हसि किल्बि षात्