१.६१.८

यत्कृते पितरः पुत्राञ्जनयन्ति शुभार्थिनः ।
परलोकहितार्थाय तस्य कालोऽयमागतः ॥

अन्वयः

शुभार्थिन: men desiring auspiciousness, पितर: parents, यत्कृते for whichever reason, परलोकहितार्थाय for your wellbeing in other worlds, पुत्रान् sons, जनयन्ति begetting, तस्य for that, अयम् काल: the proper time, आगत: has come.

पदच्छेदः

यत्कृतेयत्कृते (अव्ययः)
पितरःपितृ (१.३)
पुत्राञ्पुत्र (२.३)
जनयन्तिजनयन्ति (√जनय् लट् प्र.पु. बहु.)
शुभार्थिनःशुभ–अर्थिन् (१.३)
परलोकहितार्थायपरलोक–हित–अर्थ (४.१)
तस्यतद् (६.१)
कालोकाल (१.१)
ऽयम्इदम् (१.१)
आगतःआगत (√आ-गम् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्कृ तेपि रः पु त्रा
ञ्जन्तिशु भार्थि नः
लोहि ता र्था
स्य का लोऽय मा तः