१.६७.१

जनकेन समादिष्टा दूतास्ते क्लान्तवाहनाः ।
त्रिरात्रमुषित्वा मार्गे तेऽयोध्यां प्राविशन्पुरीम् ॥

अन्वयः

जनकेन by Janaka, समादिष्टा: commanded by, ते they, दूता: messengers, मार्गे on the way, त्रिरात्रम् three nights, उषिताः had spent, क्लान्तवाहना: with their horses tired, अयोध्यां पुरीम् city of Ayodhya, प्राविशन् entered.

Summary

Commanded by Janaka the messengers travelled for three days, rested for three nights on the way and entered the city of Ayodhya along with their horses tired.

पदच्छेदः

जनकेनजनक (३.१)
समादिष्टासमादिष्ट (√समा-दिश् + क्त, १.३)
दूतास्दूत (१.३)
तेतद् (१.३)
क्लान्तवाहनाःक्लान्त (√क्लम् + क्त)–वाहन (१.३)
त्रिरात्रम्त्रि–रात्र (२.१)
उषित्वाउषित्वा (√वस् + क्त्वा)
मार्गेमार्ग (७.१)
तेतद् (१.३)
ऽयोध्यांअयोध्या (२.१)
प्राविशन्प्राविशन् (√प्र-विश् लङ् प्र.पु. बहु.)
पुरीम्पुरी (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

के मा दि ष्टा
दू ता स्ते क्लान्त वा नाः
त्रि रात्रमु षि त्वा मा र्गे
ते ऽयो ध्यां प्राविन्पु रीम्