१.६९.१५

विश्वामित्राभ्यनुज्ञातः सह सर्वैर्महर्षिभिः ।
एष वक्ष्यति धर्मात्मा वसिष्ठो मे यथाक्रमम् ॥

अन्वयः

सर्वै: by all, महर्षिभि: सह along with maharshis, विश्वामित्राभ्यनुज्ञात: having been permitted by Visvamitra, धर्मात्मा virtuous, एष: वसिष्ठ: this Vasishta, यथाक्रमम् in detailed order, मे my (race), वक्ष्यति will tell you.

Summary

"Having been permitted by Viswamitra, along with all maharshis virtuous Vasishta will tell you in detail about my race".

पदच्छेदः

विश्वामित्राभ्यनुज्ञातःविश्वामित्र–अभ्यनुज्ञात (√अभ्यनु-ज्ञा + क्त, १.१)
सहसह (अव्ययः)
सर्वैर्सर्व (३.३)
महर्षिभिःमहत्–ऋषि (३.३)
एषएतद् (१.१)
वक्ष्यतिवक्ष्यति (√वच् लृट् प्र.पु. एक.)
धर्मात्माधर्म–आत्मन् (१.१)
वसिष्ठोवसिष्ठ (१.१)
मेमद् (६.१)
यथाक्रमम्यथाक्रमम् (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वि श्वा मि त्राभ्य नु ज्ञा तः
र्वैर्मर्षि भिः
क्ष्यति र्मा त्मा
सि ष्ठो मे थाक्र मम्