१.६९.३०

नहुषस्य ययातिस्तु नाभागस्तु ययातिजः ।
नाभागस्य बभूवाज अजाद्दशरथोऽभवत् ।
तस्माद्दशरथाज्जातौ भ्रातरौ रामलक्ष्मणौ ॥

अन्वयः

नाभागस्य Nabhaga's, अज: Aja, बभूव was born, अजात् from Aja, दशरथ: Dasaratha, अभवत् was born, अस्मात् from this, दशरथात् from Dasaratha, भ्रातरौ brothers, रामलक्ष्मणौ Rama and Lakshmana, जातौ were born.

Summary

Nabhaga's son was Aja. Aja was the father of Dasaratha and Dasaratha, the father of Rama and Lakshmana.

पदच्छेदः

नहुषस्यनहुष (६.१)
ययातिस्ययाति (१.१)
तुतु (अव्ययः)
नाभागस्नाभाग (१.१)
तुतु (अव्ययः)
ययातिजःययाति–ज (१.१)
नाभागस्यनाभाग (६.१)
बभूवाजबभूव (√भू लिट् प्र.पु. एक.)–अज (१.१)
अजाद्अज (५.१)
दशरथोदशरथ (१.१)
ऽभवत्अभवत् (√भू लङ् प्र.पु. एक.)
तस्माद्तद् (५.१)
दशरथाज्दशरथ (५.१)
जातौजात (√जन् + क्त, १.२)
भ्रातरौभ्रातृ (१.२)
रामलक्ष्मणौराम–लक्ष्मण (१.२)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
हुस्य या तिस्तु ना भास्तु
याति जः ना भास्य भू वा
जाद्द थोऽभ वत् स्माद्द
था ज्जा तौ भ्रा रौ राक्ष्म णौ