१.६९.३१

आदिवंशविशुद्धानां राज्ञां परमधर्मिणाम् ।
इक्ष्वाकुकुलजातानां वीराणां सत्यवादिनाम् ॥

पदच्छेदः

आदिवंशविशुद्धानांआदि–वंश–विशुद्ध (√वि-शुध् + क्त, ६.३)
राज्ञांराजन् (६.३)
परमधर्मिणाम्परम–धर्मिन् (६.३)
इक्ष्वाकुकुलजातानांइक्ष्वाकु–कुल–जात (√जन् + क्त, ६.३)
वीराणांवीर (६.३)
सत्यवादिनाम्सत्य–वादिन् (६.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दि वंवि शु द्धा नां
रा ज्ञांर्मि णाम्
क्ष्वाकुकु जा ता नां
वी रा णांत्य वादि नाम्