१.६९.९

प्रेषयामासतुर्वीरौ मन्त्रिश्रेष्ठं सुदामनम् ।
गच्छ मन्त्रिपते शीघ्रमैक्ष्वाकममितप्रभम् ।
आत्मजैः सह दुर्धर्षमानयस्व समन्त्रिणम् ॥

अन्वयः

मन्त्रिपते O Foremost of counsellors, शीघ्रम् speedily, गच्छ go, अमितप्रभम् immeasurable splendour, ऐक्ष्वाकुम् Ikshvaku king Dasaratha, दुर्धर्षम् invincible, समन्त्रिणम् together with ministers, आत्मजै: along with sons, समानयस्व bring him.

Summary

"O Foremost among counsellors, go speedily and bring along with his ministers and sons the invincible Dasaratha of the Ikshvakus dynasty whose splendour is immeasurable".

पदच्छेदः

प्रेषयामासतुर्प्रेषयामासतुः (√प्र-इषय् प्र.पु. द्वि.)
वीरौवीर (१.२)
मन्त्रिश्रेष्ठंमन्त्रिन्–श्रेष्ठ (२.१)
सुदामनम्सुदामन (२.१)
गच्छगच्छ (√गम् लोट् म.पु. )
मन्त्रिपतेमन्त्रिन्–पति (८.१)
शीघ्रम्शीघ्रम् (अव्ययः)
ऐक्ष्वाकम्ऐक्ष्वाक (२.१)
अमितप्रभम्अमित–प्रभा (२.१)
आत्मजैःआत्मज (३.३)
सहसह (अव्ययः)
दुर्धर्षम्दुर्धर्ष (२.१)
आनयस्वआनयस्व (√आ-नी लोट् म.पु. )
समन्त्रिणम् (अव्ययः)–मन्त्रिन् (२.१)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
प्रे या मा तु र्वी रौ न्त्रि श्रे ष्ठं
सु दा नम्च्छन्त्रि ते शीघ्र
मै क्ष्वामिप्र भम्त्म जैः
दु र्धर्ष मास्वन्त्रि णम्