१.६९.१०

औपकार्यां स गत्वा तु रघूणां कुलवर्धनम् ।
ददर्श शिरसा चैनमभिवाद्येदमब्रवीत् ॥

अन्वयः

स: he, औपकार्याम् tent, गत्वा having gone, रघूणाम् of the race of Raghus, कुलवर्धनम् perpetuating, ददर्श saw, एनम् him, शिरसा bowing down his head, अभिवाद्य having saluted him, इदम् these words, अब्रवीत् spoke.

Summary

Having reached the tent, he (Sudamana) saw Dasaratha, perpetuator of the race of the Raghus and bowing down his head, said:

पदच्छेदः

औपकार्यांऔपकार्य (२.१)
तद् (१.१)
गत्वागत्वा (√गम् + क्त्वा)
तुतु (अव्ययः)
रघूणांरघु (६.३)
कुलवर्धनम्कुल–वर्धन (२.१)
ददर्शददर्श (√दृश् लिट् प्र.पु. एक.)
शिरसाशिरस् (३.१)
चैनम् (अव्ययः)–एनद् (२.१)
अभिवाद्येदम्अभिवाद्य (√अभि-वादय् + ल्यप्)–इदम् (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

का र्यां त्वातु
घू णांकुर्ध नम्
र्शशि सा चै
भि वा द्येब्र वीत्