१.७.५

तेजःक्षमायशःप्राप्ताः स्मितपूर्वाभिभाषिणः ।
क्रोधात्कामार्थहेतोर्वा न ब्रूयुरनृतं वचः ॥

पदच्छेदः

तेजःक्षमायशःप्राप्ताःतेजस्–क्षमा–यशस्–प्राप्त (√प्र-आप् + क्त, १.३)
स्मितपूर्वाभिभाषिणःस्मित (√स्मि + क्त)–पूर्व–अभिभाषिन् (१.३)
क्रोधात्क्रोध (५.१)
कामार्थहेतोर्काम–अर्थ–हेतु (६.१)
वावा (अव्ययः)
(अव्ययः)
ब्रूयुर्ब्रूयुः (√ब्रू विधिलिङ् प्र.पु. बहु.)
अनृतंअनृत (२.१)
वचःवचस् (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ते जःक्ष मा शः प्रा प्ताः
स्मि पू र्वाभि भाषि णः
क्रो धा त्का मार्थ हे तो र्वा
ब्रूयुनृ तं चः