१.७०.१०

पुत्रः कीर्तिरथस्यापि देवमीढ इति स्मृतः ।
देवमीढस्य विबुधो विबुधस्य महीध्रकः ॥

अन्वयः

कीर्तिरथस्यापि Kirtiratha's, पुत्र: son, देवमीढ इति as Devamidha, स्मृत: has been known, देवमीढस्य Devamidha's son, विबुध: was Vibudha, विबुधस्य Vibhuda's son, महीध्रक: was Mahidhraka.

Summary

The son of Kirtiratha was known as Devamidha. His son was Vibudha, father of Mahidhraka.

पदच्छेदः

पुत्रःपुत्र (१.१)
कीर्तिरथस्यापिकीर्तिरथ (६.१)–अपि (अव्ययः)
देवमीढदेवमीढ (१.१)
इतिइति (अव्ययः)
स्मृतःस्मृत (√स्मृ + क्त, १.१)
देवमीढस्यदेवमीढ (६.१)
विबुधोविबुध (१.१)
विबुधस्यविबुध (६.१)
महीध्रकःमहीध्रक (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

पु त्रः कीर्ति स्यापि
दे मी तिस्मृ तः
दे मीस्यविबु धो
विबुस्य हीध्र कः