१.७०.२१

सीतां रामाय भद्रं ते ऊर्मिलां लक्ष्मणाय च ।
वीर्यशुल्कां मम सुतां सीतां सुरसुतोपमाम् ॥

पदच्छेदः

सीतांसीता (२.१)
रामायराम (४.१)
भद्रंभद्र (१.१)
तेत्वद् (४.१)
ऊर्मिलांऊर्मिला (२.१)
लक्ष्मणायलक्ष्मण (४.१)
(अव्ययः)
वीर्यशुल्कांवीर्य–शुल्क (२.१)
मममद् (६.१)
सुतांसुता (२.१)
सीतांसीता (२.१)
सुरसुतोपमाम्सुर–सुता–उपम (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सी तां रा मा द्रं ते
र्मि लांक्ष्म णा
वीर्य शु ल्कांसु तां
सी तांसुसु तो माम्