१.७१.२१

गवां शतसहस्राणि ब्राह्मणेभ्यो नराधिपः ।
एकैकशो ददौ राजा पुत्रानुद्धिश्य धर्मतः ॥

अन्वयः

नराधिप: lord of men, राजा king, पुत्रान् sons, एकैकश: for each one, उद्धिश्य referring to their names, ब्राह्मणेभ्य: for brahmins, गवाम् cows, शतसहस्राणि in hundred thousands, धर्मत: in accordance with law, ददौ bestowed.

Summary

For the welfare of each of his sons the king (Dasaratha) religiously gave away a hundred thousand cows to brahmins.

पदच्छेदः

गवांगो (६.३)
शतसहस्राणिशत–सहस्र (२.३)
ब्राह्मणेभ्योब्राह्मण (४.३)
नराधिपःनराधिप (१.१)
एकैकशोएक–एकशस् (अव्ययः)
ददौददौ (√दा लिट् प्र.पु. एक.)
राजाराजन् (१.१)
पुत्रान्पुत्र (२.३)
उद्दिश्यउद्दिश्य (√उत्-दिश् + ल्यप्)
धर्मतःधर्म (५.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वां स्राणि
ब्राह्म णे भ्यो राधि पः
कै शो दौ रा जा
पु त्रा नु द्धिश्यर्म तः