१.७३.१५

वसिष्ठ ऋषयश्चान्ये राजा च ससुतस्तदा ।
ससंज्ञा इव तत्रासन्सर्वमन्यद्विचेतनम् ॥

अन्वयः

तदा then, वसिष्ठश्च Vasishta, अन्ये other, ऋषयश्च saints, ससुत: with his sons, राजा king Dasaratha, ससंज्ञा: इव as if having consciousness, (तत्र)आसन् remained, अन्यत् others, सर्वम् entire, विचेतनम् lost their consciousness.

Summary

At that time Vasishta and other saints, the king and his sons held their senses under control. All others lost their consciousness.

पदच्छेदः

वसिष्ठवसिष्ठ (१.१)
ऋषयश्ऋषि (१.३)
चान्ये (अव्ययः)–अन्य (१.३)
राजाराजन् (१.१)
(अव्ययः)
ससुतस् (अव्ययः)–सुत (१.१)
तदातदा (अव्ययः)
ससंज्ञा (अव्ययः)–संज्ञा (१.३)
इवइव (अव्ययः)
तत्रासन्तत्र (अव्ययः)–आसन् (√अस् लङ् प्र.पु. बहु.)
सर्वम्सर्व (१.१)
अन्यद्अन्य (१.१)
विचेतनम्विचेतन (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सिष्ठ श्चा न्ये
रा जासुस्त दा
सं ज्ञा त्रा
न्सर्व न्यद्वि चे नम्