१.७३.१७

कैलासमिव दुर्धर्षं कालाग्निमिव दुःसहम् ।
ज्वलन्तमिव तेजोभिर्दुर्निरीक्ष्यं पृथग्जनैः ॥

पदच्छेदः

कैलासम्कैलास (२.१)
इवइव (अव्ययः)
दुर्धर्षंदुर्धर्ष (२.१)
कालाग्निम्कालाग्नि (२.१)
इवइव (अव्ययः)
दुःसहम्दुःसह (२.१)
ज्वलन्तम्ज्वलत् (√ज्वल् + शतृ, २.१)
इवइव (अव्ययः)
तेजोभिर्तेजस् (३.३)
दुर्निरीक्ष्यंदुर्निरीक्ष्य (२.१)
पृथग्जनैःपृथग्जन (३.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

कै लामि दु र्ध र्षं
का लाग्निमि दुः हम्
ज्वन्तमि ते जोभि
र्दुर्नि री क्ष्यंपृग्ज नैः